|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.174. अध्यायः 174
Mahabharata - Adi Parva - Chapter Topics
कुन्त्या रोदनकारणप्रश्ने ब्राह्मणेन बकवृत्तान्तकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
कुन्त्युवाच। 1-174-0x(1011)(7903)
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्॥ 1-174-1(7904)
ब्राह्मण उवाच। 1-174-2x(1012)
उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्॥ 1-174-2(7905)
`तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम्।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम्॥ 1-174-3(7906)
समीपे नगरस्यास्य वको वसति राक्षसः।
इतो गव्यूतिमात्रे।ञस्ति यमुनागह्वरे गुहा॥ 1-174-4(7907)
तस्यां घोरः स वसति जिघांसुः पुरुषादकः।
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः॥ 1-174-5(7908)
ईशो जनपदस्यास्य पुरस्य च महाबलः।
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः॥ 1-174-6(7909)
प्रबलः कामरूपी च राक्षसस्तु महाबलः।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम्॥ 1-174-7(7910)
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्।
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना॥ 1-174-8(7911)
अनाथा नगरी नाथं त्रातारं नाधिगच्छति।
गुहायां च वसंस्तत्र बाधते सततं जनम्॥ 1-174-9(7912)
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान्।
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः॥ 1-174-10(7913)
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान्।
यदा च सकलानेवं प्रसूदयति राक्षसः॥ 1-174-11(7914)
अथैनं ब्राह्मणाः सर्वे समये समयोजयन्।
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं॥ 1-174-12(7915)
पर्यायेण यथाकाममिह मांसोदनं प्रभो।
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम्॥ 1-174-13(7916)
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम्।
सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान्॥ 1-174-14(7917)
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम्।
वनमाहिषवाराहभाल्लूकं च शृताशृतम्॥ 1-174-15(7918)
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून्।
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम्॥ 1-174-16(7919)
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ।
प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम्॥ 1-174-17(7920)
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः।
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत॥ 1-174-18(7921)
परचक्राटवीकेभ्यो रक्षणं स करोति च।
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली॥ 1-174-19(7922)
एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम्।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः॥ 1-174-20(7923)
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित्।
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत॥' 1-174-21(7924)
वेत्रकीयगृहे राजा नायं नयमिहास्थितः।
उपायं तं न कुरुते यत्नादपि स मन्दधीः।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्॥ 1-174-22(7925)
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः॥ 1-174-23(7926)
ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा॥ 1-174-24(7927)
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
`राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्।
वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत्॥ 1-174-25(7928)
विपीरतं मया चेदं त्रयं सर्वमुपार्जितम्।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम्॥ 1-174-26(7929)
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया॥ 1-174-27(7930)
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन॥ 1-174-28(7931)
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्॥ 1-174-29(7932)
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति॥ 1-174-30(7933)
`दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे॥' ॥ 1-174-31(7934)
इति श्रीमन्महाभारते आदिप्रवणि बकवधपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः॥ 174 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-174-22 वेत्रकीयगृहे स्थानविशेषे। इतोऽदूरे राजास्त्ययमिह नगरे नयं न आस्थितः। अस्य नगरस्यावेक्षां न करोतीत्यर्थः। स्वयं राक्षसं हन्तुमशक्तत्वात्। नायं नायमिहास्थित इति खपुस्तकपाठः। नायं नायं बलिं पुनः पुनः प्रापय्येत्यर्थः। उपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः॥ 1-174-23 एतदर्हाः एतस्य दुःखस्य योग्याः॥ चतुःसप्तत्यधिकशततमोऽध्यायः॥ 174 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|